362
[अयोध्याकाण्डः
सिद्धार्थवचनम्
निघ्नन् मृगान् कुञ्जरांश्च पिवंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन् न [१]राज्यस्य स्मरिष्यति ॥ ६ ॥
न राज्यस्येति । न राज्यसुखं स्मरिष्यतीत्यर्थः ॥ ६ ॥
धान्यकोशश्च यः कश्चित् धनकोशश्च मामकः ।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ ॥
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥
[२]भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
सर्वकामैस्सह श्रीमान् रामस्संसाध्यतामिति'इति [३] ॥ ९ ॥
संसाध्यतां-प्रस्थाव्यतामिति यावत् ॥ ९ ॥
एवं ब्रुवति काकुत्स्थे [४]कैकेय्या भयमागतम् ।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ १० ॥
सा [५] विषण्णा च संत्रस्ता [६]मुखेन परिशुष्यता ।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥
राज्यं [७]गतधनं, साधो ! पीतमण्डां सुरामिव ।
निराखाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२ ॥
मण्डः- सुरान्तर्गतसारांशः ॥ १२ ॥
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥
- ↑ राज्यं संस्मरिष्यति-ङ.
- ↑ अयोध्यां पालयिष्यतीति सोपालंभोक्तिः- गो.
- ↑ जगाद' इति पूर्वेणान्वयः
- ↑ कैकेयी भयमागता-ङ.
- ↑ विबर्णा-ङ.
- ↑ मुखेन उपलक्षितेत्यर्थः ।
- ↑ गतजनं-क.