पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
363
भूयो निर्बम्धयामास राजानं क्रोधमूर्च्छिता

 वहन्तं किं तुदसि मां नियुज्य धुरि [१] [२]माऽहिते !
 [३]अनायें ! कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥

 वहन्तमिति । दासबत् त्वया भरताभिषेके रामविवासने च नियुज्य नियुक्तधुरञ्च वहन्तमपि मां किं तुदसि-व्यथयसि ? हे अनायें ! इदानीमारब्धं सर्वसौभाग्योपेततयाऽस्मत्प्र-स्थापनं किमिति नोपारुधः ? पूर्वं-रामवनवासप्रार्थनकाल एव सर्वं त्यक्त्वा केवलं यात्विति किमिति न प्रार्थितम् ? अत एतन्निरोधे तव सामर्थ्यं' नास्तीत्यर्थः ॥ १४ ॥

 तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।
 कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥

 द्विगुणं क्रुद्धेति । प्रकारान्तरेण मत्प्रयोजनं नाशयतीति ॥

 तवैव वंशे सगरो ज्येष्ठपुत्र [४]मुपारुधत् ।
 असमञ्ज इति ख्यातं, तथाऽयं गन्तुमर्हति ॥ १६ ॥

 अवृतस्यापि दृष्टान्तावष्टम्भेनार्थसिद्धं वनप्रस्थानस्य कैवल्यमित्याशयेनाह- तवैवेत्यादि ॥ १६ ॥

 एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
 व्रीडितश्व जनः सर्वः सा च तं [५]नावबुध्यत ॥ १७ ॥


  1. मा-मां, धुरि नियुज्य तं वहन्तमेव मां तुदसि
  2. वा ऽहिते-ङ.
  3. हे अनायें आरब्धं किं कृत्यं नोपारुधः ? सर्वमुपरुद्धवत्येव । पूर्वमभिषेककृत्यं इदानीं आनुयात्रिकप्रदानमारब्धं, तदप्युपारुध इत्यर्थः-ती. शेषं १६ श्लोकटिप्पण्यां द्रष्टव्यम्
  4. उपारुधत्-राज्य-भोगेभ्य इति शेषः-ति. अत्र 'ज्येष्ठपुत्रमुपारुधत्' 'रामः किमकरोत्पापं येनैव-मुपरुध्यते' (श्लो. २६) इति वाक्यद्वयपर्यालोचनाया 'अनायें कृत्यमारब्धं किं न पूर्वमुपारुधः' इत्यत्रापि पुरुष एवोपरोधकर्मीभूत इति युज्यते ।
  5. नावबुध्यति-ङ.