पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
364
[अयोध्याकाण्डः
सिद्धार्थवचनम्

 एवमुक्त इति । असमञ्जवद्गमनेऽभिहित इति यावत् । स्वप्रतिश्रुतार्थातिरिक्तस्य दुराशया प्रलापतो राज्ञो धिक्कृतिः । तं-- कृतधिक्कारमित्यर्थः ॥ १७ ॥

 तत्र [१]महामात्रः सिद्धार्थो नाम नामतः ।
 शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥

 अथासमञ्जवत् प्रस्थापनं त्वद्दुराशा[२]मात्रत एव केवलम् । नात्र तदवतारप्रसङ्ग इति सिद्धार्थाख्यो मन्त्रिवृद्ध आह-तत्रेत्यादि ।

 महामात्रः-प्रधानः ॥ १८ ॥

 असमञ्जो गृहीत्वा हि क्रीडतः पथि दारकान् ।
 सरय्वाः प्रक्षिपन्नप्सु [३]रमते तेन दुर्मतिः ॥ १९ ॥
 तं दृष्ट्वा नागरास्सर्वे क्रुद्धा राजानमब्रुवन् ।
 असमञ्जं वृणीष्वैकमस्मान् वा, राष्ट्रवर्धन ! ॥ २० ॥
 तानुवाच ततो राजा किन्निमित्तमिदं भयम् ॥
 ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१ ॥
 क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्त[४]चेतनः ।
 सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २२ ॥
 स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।
 तं तत्त्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥

 तं पुत्रं तत्याज हीति योजना ॥ २३ ॥


  1. वृद्धो महामात्यः-ङ.
  2. मात्रमेव-ट.
  3. तेन प्रक्षेपेण रमते स्मेति शेषः । तिलके तु तेन-कारणेन दुर्मतिः इति ॥
  4. चेतसः-ङ.