पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
365
सिद्धार्थेनापि सा प्रोक्ता न तत्याज स्वनिश्चयम्

 तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।
 यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता ॥ २४ ॥

 अन्वशात्-अनुशिष्टवान् ॥ २४ ॥

 [१] फालपिटकं गृह्य गिरि [२]दुर्गाण्यलोकयन् ।
 [३] सर्वा दिशस्त्वनुचरन् [४]अतिष्ठत् पापकर्मकृत् ॥ २५ ॥
 इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।

 गिरिदुर्गाण्यलोकयन्-गिरिदुर्गाणि परिभ्रममाणः कन्दादिकमलोकयन् सर्वा दिशश्च कन्दाद्यर्थमनुचरन् अतिष्ठत्-यावज्जीवं पितुराज्ञया निजापराधात् ॥ २५ ॥

 रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥

 प्रकृते कुत एतत्प्रसङ्ग इत्याह-रामः किमित्यादि ॥ २६ ॥

 न हि कञ्चन पश्यामो [५]राघवस्यागुणं वयम् ।
 दुर्लभो ह्यस्य निरयः, शशाङ्कस्येव कल्मपम् ॥
 अथवा, देवि ! दोषं त्वं कञ्चित्पश्यसि राघवे ।
 तमद्य ब्रूहि तत्वेन [६]तदा रामो [७]विवास्यते ॥ २८ ॥


  1. फालं-कन्दमूलादिखननसाधनं, पिटकं-तद्धारणपात्रम्-गो.
  2. दुर्गाण्यलोलयत्, दुर्गाणि लोकयन्-ङ.
  3. दिशस्सर्वा-ङ.च.
  4. स यथा-ङ. च.
  5. दोषपद-मुच्चरितुमप्यसहमान आह–अगुणमिति ॥ उत्तरत्र तु कैकेयीदृष्ट्या दोषपदप्रयोगः । यथा
    असमञ्ज निरयहेतुपापकर्मकृत्, न तथा रामः पापकृत् इत्याशयः । तादृशपापाभावेऽपि अल्पं वा यदि पापं स्यादित्याशङ्कायामाह-शशाङ्कस्येत्यादि । इमं पादं
    पूर्वेणैवान्वीय-शशाङ्कस्येति व्यतिरेक दृष्टान्तः । (इति केचित्-सत्य.) "शशाङ्कस्य द्वितीयाचन्द्रस्य' इति च केचिद्व्याचख्युः-शि. कतकव्याख्यानमेव स्वरसम् ॥
  6. तदा-ङ.
  7. विवास्यताम्-ङ.