पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
366
[अयोध्याकाण्डः
सिद्धार्थवचनम्

 अगुणं-दोषम् । दुर्लभः-अप्रापणीय एव, अस्य निरयः- वनवासदुःखम् ।अथवा शशाङ्कस्यापि कल्मषमिव राघवे यदि किञ्चिद्दोषं पश्यसि तदद्य ब्रूहि । तदा असमञ्जवत् त्यागो भविष्यतीति शेषः ॥ २८ ॥

 [१]अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।
 निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥
 तदलं, देवि ! रामस्य श्रिया विहतया त्वया ।
 लोकतोऽपि हि ते रक्ष्यः परिवादश्शुभानने ॥ ३० ॥

 त्वया विहतया रामस्य श्रिया ते न किञ्चित् । तदलं वृथा श्रमेण । हि-यस्मात् लोकतः प्राप्तः परिवादश्च रक्ष्यः-परिहार्यः । ततोऽप्यलम् ॥ ३० ॥

 श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
 शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥

 एतद्वचो नेच्छसि, [२]पापवृत्ते !
  हितं न [३]जानासि ममात्मनो वा ।
 [४]आस्थाय मार्गं कृपणं कुचेष्टा
  चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥

 एतद्वच इति । सिद्धार्थवच इत्यर्थः । मम हितं न जानासि, आत्मनः-तवापि हितं न जानासि । कृपणं मार्गमास्थाय येयं कुचेष्टा कृता सेयं चेष्टा साधुपथादपेता हि ॥ ३२ ॥


  1. एतदनन्तरं 'अप्राप्तस्य विवासोऽयं वनेषु सुयशस्विनः'-ङ.
  2. पापरूपे-ङ.
  3. जानामि-ङ.
  4. कुचेष्टा त्वं कृपणं मार्गमास्थाय ममात्मनो वा हितं न जानासीति वा अन्वयः । कुचेष्टात्वमेवोपपादयति–चेष्टा हीति ॥