पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
367
रामस्तु स्वरयामास वनवासाय निश्चितः

 [१]अनुव्रजिष्याम्यहमद्य रामं
  राज्यं परित्यज्य सुखं धनं च ।
  [२]सदैव राज्ञा भरतेन च त्वं
  यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्त्रिशस्सर्गः


 लीला (३३) मानस्सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्त्रिंशस्सर्गः


सप्तत्रिंशस्सर्गः

[वसिष्ठाक्रोशः]

 [३]महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
 अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥

 एवं सह विभूत्या वनवासे मन्त्रिवृद्धेन समर्थिते रामस्तु शुद्धभावत्वात् जटावल्कलधारिणा वस्तव्यमित्युक्त्या अर्थात् भोगपरि-करत्यागो वृत एव, प्रयोजनञ्च ततो मम नास्तीति मन्यमानस्सन् राजोपदिष्टभोगपरिकरं प्रत्याख्याति-महामात्रेत्यान्दे ॥ १ ॥

 व्यक्तभोगस्य मे, राजन् ! वने वन्येन जीवतः ।
 किं कार्य[४]मनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥


  1. धनधान्यादिनयने कैकेय्या प्रतिरुद्धे तत्सर्व परित्यज्य अहमेव राममनुगमिष्यामीत्याह दशरथः
  2. सर्वे च-ड.
  3. महामात्य-ङ.
  4. अनुयात्रेण-अनुगतबलेन-गो. यापनोपायेन ।'यात्रा तु यापनोपाये' इति विश्वः-सत्य.