पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
368
[अयोध्याकाण्डः
वसिष्ठाकोशः

 त्यक्तभोगस्येति । जटावल्कलधारिणाऽवश्यवस्तव्यत्वेन राजभोगत्यागस्यावश्यप्राप्तत्वादित्याशयः । अनुयात्रेण-अनुयात्रावता। बलादिनेत्यर्थः ॥ २ ॥

 यो हि दत्त्वा द्विपश्रेष्ठं [१]कक्ष्यायां कुरुते मनः ।
 रञ्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥

 असङ्गतश्चायमनुयात्राप्रस्थापनवाद इत्याह-यो हीत्यादि । कक्ष्यायां-पर्यङ्कबन्धनरजौ ॥ ३ ॥

 तथा मम, सतां श्रेष्ठ ! किं ध्वजिन्या, जगत्पते !
 सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥

 तथा ममेति । उक्तदृष्टान्तवत् राज्यमेव त्यजतः राज्यावयवेन कक्ष्याकल्पेन ध्वजिन्यादिना किम् ? न किमपि प्रयोजनमित्यर्थः । यदेवं–अतस्सर्वाण्येव भरतायैवानुजानामि, मातुः प्रीतये । अतश्चीरादीन्वनोपयुक्तपदार्थानेवानयन्तु । भवन्त इति शेषः ॥ ४ ॥

 खनित्रपिटके चोभे [२]समानयत गच्छत ।
 चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥
 [३]अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।
 उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ ६ ॥

 एवमुक्ते तत्साहसेऽपि कैकेय्येव प्रावर्तत-अथेत्यादि । चीरे इति । अन्तरीयोत्तरीयरूपे ॥ ६ ॥


  1. 'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्चयां मध्ये भवन्धने' इत्यमरः
  2. ममानयत गच्छतः-ङ.
  3. एतत्पर्यन्तं मन्थराप्रेरितं सिद्धं कृत्वा ब्राह्मणशापप्राप्त लोकासूयाविषयत्वसंपादकं कर्म कैकेय्यारभते---अथेति । स च शापोऽध्यात्मरामायणे स्पष्टः-ति.