पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
369
कैकेयी प्रार्थयामास कुशचीरे त्र राघवः

 स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
 सूक्ष्मवस्त्रमवक्षिप्य सुनिवस्त्राण्यवस्त ह ॥ ७ ॥

 अवक्षिप्य-परित्यज्य । मुनिवस्त्राणि-चीराणि । अवस्त-वस आच्छादने, अस्माल्लङ् ॥ ७ ॥

 लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।
 तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ८ ॥
 अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
 संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ ९ ॥

 अथ सीता आत्मनः-स्वस्या अपि परिधानार्थं प्राप्तं चीरं समीक्ष्य त्रस्ताऽभूत् । पृषती-मृगी ॥ ९ ॥

 सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।
 [१]कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥ १० ॥
 अश्रुसंपूर्णनेत्रा च धर्मज्ञा [२]धर्मदर्शिनी ।
 गन्धर्वरराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११ ॥

 [३]व्यपत्रपमाणेव-लज्जमानेव कैकेय्यास्सकाशात् प्रगृह्य ॥ ११ ॥

 कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ।
 इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥

 इति ह्यकुशला-चीरबन्धनाऽसमर्था ; अपरिचयात् ॥ १२ ॥


  1. कैकेयी-ङ.
  2. धर्मस्य दर्शनं परेभ्यः तदनुष्ठानमेव स्वयं धर्मे जानन्ती, अनुष्ठात्री चेस्यर्थः ।
  3. व्यपत्रपमाणैव-क.