पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
370
[अयोध्याकाण्डः
वशिष्ठाक्रोशः

 कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।
 तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ १३ ॥
 तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः ।
 चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ ॥

 कौशेयस्योपरीति । तस्याः कौशेयपरित्यागादेः प्रसक्त्यभावात् ॥

 रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।
 अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५ ॥
 ऊचुश्च [१]परमायत्ता रामं ज्वलितचेतसम् ।
 वत्स ![२]नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥

 परमायत्ताः-परमखिन्नाः, यती प्रयत्ने णौ, यत्तः खेदोपस्करयोः ॥ १६ ॥

 पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।
 [३][४]तावद्दर्शनमस्या नः सफलं भवतु, प्रभो ! ॥ १७ ॥

 अस्या नस्सफलमिति । अस्या दर्शनेन नः-अस्माकं जीवितं सफलं भवतु । अत इयमिह तिष्ठत्वित्यग्रेण सम्बन्धः ॥ १७ ॥

 लक्ष्मणेन सहायेन वनं गच्छस्व, पुत्रक!
 नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ ॥


  1. परमायस्ताः-ङ.
  2. मैवं-ङ.
  3. वनं गतस्य तव सम्बन्धिन्याः अस्यास्सीताया दर्शनं तावत्-त्वदागमनपर्यन्तं नः-अस्माकं सफलं-त्वद्दर्शनं यथाssनन्दकरं तथा भवतु । दर्शनेन नः - अस्माकं जीवितं सफलं भवत्वित्यर्थः-ती. वनं गतस्य तव दर्शनं अस्यां सफलं भवतु–त्वामिवैनां द्रक्ष्याम इति भावः-गो.
  4. तव दर्शनमस्यां-ङ.