पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
371
कैकेयी चापि निर्लज्जा तेभ्यश्चीराण्युपाददे

 कुरु नो याचनां, पुत्र ! सीता तिष्ठतु भामिनी ।
 धर्मनित्यस्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ १९ ॥
 तासामेवंविधा वाचः शृण्वन् दशरथात्मजः ।
 बबन्धैव तदा चीरं [१]सीतया तुल्यशीलया ॥ २० ॥

 तासामेवंविधा वाचः शृण्वन्नपि तुल्यशीलया सीतया अनङ्गीकृतनगरस्थितिकया प्रेरितस्सन् तदा चीरं बबन्धैव ॥ २० ॥

 चीरे गृहीते तु तया [२]समीक्ष्य नृपतेर्गुरुः ।
 निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमत्रवीत् ॥ २१ ॥
 [३]अतिवृत्ते ! सुदुर्मेधे ! कैकेयि! कुलपांसनि !
 वञ्चयित्वा तु राजानं [४][५]न प्रमाणेऽवतिष्ठसे ॥ २२ ॥

 अतिवृत्ते-अतिमर्यादे । प्रमाणे यावद्धृतं तावत्प्रमाणे नावतिष्ठसे ॥ २२ ॥

 न गन्तव्यं वनं देव्या सीतया, शीलवर्जिते !
 [६]अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २३ ॥

 कुत इत्यतः-न गन्तव्यमित्यादि । त्वद्वरानन्तर्भावादित्याशयः । यदेवमतः-अनुष्ठास्यतीत्यादि । प्रकृतमासनं-सिह्मासनं । अनुष्ठास्यतिराज्यं करिष्यति । यावद्रामागमनमित्यर्थः ॥ २३ ॥

 आत्मा हि दारास्सर्वेषां दारसंग्रहवर्तिनाम् ।
 आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २४ ॥


  1. षष्ठ्यर्थे तृतीया-गो. अथवा एतत्पदद्वयस्योत्तरश्लोकेऽन्वयः
  2. सबाष्पो-ङ.
  3. अतिप्रवृत्ते दुर्मेधे-ङ.
  4. सप्रमाणेव-सद्वृत्तेव-ती.
  5. सप्रमाणेव-ङ. छ.
  6. अधिष्ठास्यति-ङ.