पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
372
[योध्याकाण्डः
वशिष्ठाक्रोशः

 कथं स्त्रिया राज्याधिष्ठानमित्यतः-आत्मेत्यादि । दारसंग्रहवर्तिनां गृहस्थाश्रमनिष्ठानामित्यर्थः । अतो रामस्येयमात्मेति कृत्वा तस्य मेदिनीं ज्यैष्ठ्यादुभयविधात् प्राप्तां पालयिष्यति। 'अर्धो वा एष आत्मनो यत् पत्नी' इति श्रुतेरात्मत्वं चाविवादम् ॥ २४ ॥

 [१]अथ यास्यति वैदेही वनं रामेण सङ्गता ।
 [२]अत्रैनमनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ ॥

 अथ यास्यति । त्वन्निर्नबर्धादिति शेषः । वयमिति । अस्मदाद्या ब्राह्मणा इत्यर्थः । अत्रेति । यत्र रामः अत्रैनमनुयास्याम इत्यर्थः ॥ २५ ॥

 [३]अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
 सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ ॥

 अन्तपालाः-शुद्धान्तरक्षकाः । अभ्यन्तरभृत्यवर्गा इत्यर्थः । सहोपजीव्यं-उपजीव्यं जीवाजीवधनं-तत्सहितं तथा । सपरिच्छदं-दासीदासशकटादिपरिकरयुक्तम् ॥ २६ ॥

 [४]भरतश्च सशत्रुघ्नः चीरवासा वनेचरः ।
 वने वसन्तं काकुत्स्थ[५]मनुयास्यति पूर्वजम् ॥ २७ ॥

 भरतश्च पूर्वजमनुयास्यतीति । तत्स्वभावस्त्वस्माभिर्ज्ञायत इति शेषः ॥ २७ ॥


  1. पत्न्याः पत्यर्धत्मत्वे, तर्हि रामवनवासवरणे तत्पत्न्या अपि वनवास, सिद्ध एवेति यदि कैकेयी ब्रूयादित्याह-अथेति
  2. वयमप्यनु-ङ. वयमत्रानु-च.
  3. अन्तपालाः-राष्ट्रान्तपरिपालका: दण्डनायकाः-गो.
  4. 'पितॄन् समनुजायन्ते नरा मातरमङ्गनाः' इति खलु न्याय इति भावः ॥
  5. मनुवत्स्यति-ङ.