पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
373
वसिष्ठस्तु तदा कुदो गर्हयामास कैकयीम्

 ततः शून्यां गतजनां वसुधां [१] पादपैस्सह ।
 त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २८ ॥

 पादपैस्सहेत्यनेन अटवीभूतामिति द्योत्यते ॥ २८ ॥

 न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।
 तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥
 [२]ह्यदत्तां महीं पित्रा भरतः शास्तु [३]मर्हति ।
 त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० ॥

 अपि च सर्वथैव ते भरतराज्यप्रयासो व्यर्थ इत्युच्यते-न हीत्यादि । पित्रा अदत्तामिति । रामाय न्यायेन ससन्तोषं पित्रा दत्तेति सर्वेषां नः प्रत्यक्षम् । तत्तु केवलं त्वया प्रतिबद्धम् । त्वयि वा पितृनाशिकायां अतः परं पुत्रवद्वस्तुं नार्हति-इत्यनुकर्षः । कुत एवमित्यतः–यदीत्यादि। यदि महीपतेर्जातः-यद्यसतीसुतो न स्यादित्यर्थः 'पितॄन् समनुजायन्ते नराः' इति खल्लु न्याय इत्याशयः । भरतस्य च देहग्रहो दशरथमहायागमूल इत्यविवादात् ॥ ३० ॥

 यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।
 पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ ३१ ॥

 सर्वथाऽसौ पितृवंशे तत्प्राधान्येन स्थितस्सन् चरित्रज्ञपितृपितामह परंपराप्राप्तस्वकुलोचिताचारज्ञस्सन् अन्यथा न करिष्यति । ज्येष्ठे जाग्रति स्वयं राज्यं न करिष्यतीत्यर्थः ॥ ३१ ॥


  1. पादपानां गमनशक्त्याभावात्त एववशेष्येरन्नित ।
  2. अदत्तां-प्रीतिपूर्वकमद्दत्तां गो. ती.
  3. मिच्छति-च.