पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
374
[अयोध्याकाण्डः
वसिष्ठाक्रोशः

 तत्त्वया पुत्रगर्धिन्या[१]पुत्रस्य कृतमप्रियम् ।
 [२]लोको न हि स विद्येत यो न राममनुव्रतः ॥ ३२ ॥

 पुत्रगर्धिन्या-पुत्रराज्याभिलाषवत्या । यो रामं नानुव्रतः स लोकः-प्राणी दैवहतां त्वां विना न विद्येत-न संभवेत् ॥ ३२ ॥

 द्रक्ष्यस्यद्यैव, कैकेयि ! पशुव्यालमृगद्विजान् ।
 गच्छतस्सह रामेण [३]पादपांश्च तदुन्मुखान् ॥ ३३ ॥

 किमिह प्रमाणमित्यत्र प्रत्यक्षमेवेत्युच्यते - द्रक्ष्यस्यद्यैवेत्यादि । पादपांश्च तदुन्मुखान्, किमु मनुष्यानिति शेषः ॥ ३३ ॥

 अथोत्तमान्याभरणानि, देवि !
  देहि स्नुषायै व्यपनीय चीरम् ।
 [४]न चीरमस्याः प्रविधीयतेति
  न्यवारयत्तद्वसनं वसिष्ठः ॥ ३४ ॥

 एवं सर्वज्ञत्वाद्भगवान् वसिष्ठः भाव्यर्थजातमनुगृह्य प्रकृतानुष्ठेय-मुपदिशति-अथोत्तमानीत्यादि । यथोचितानि उत्तमानि च तथा ॥

 एकस्य रामस्य वने निवासः
  त्वया वृतः, केकयराजपुत्रि !
 विभूषितेयं प्रतिकर्मनित्या
  वसत्वरण्ये सह राघवेण ॥ ३५ ॥


  1. रामविप्रवासत्य त्वत्पुत्रविप्रवासे पर्यवसानात् पुत्रस्याप्रियं कृतमिति ।
  2. लोके-ङ.
  3. तथोपरिष्टात् स्पष्टीभविष्यति–' अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः' इति-गो.
  4. अस्याः-जीवस्पतिकायाः सीतायाः ।