पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
विललाप जनः सर्वः दृष्ट्वा तान् चीरवाससः

 'चीरं न प्रविधीयते' इत्युक्तमेवार्थं बोधयति एकस्येत्यादि । प्रतिकर्म-प्रसाधनव्यापारः स नित्यो यस्यास्सा तथा । अत एव विभूषिता सतीयं रामेण सहारण्ये स्वभर्तृशुश्रूषाप्रयुक्ता सती वसतु ॥ ३५ ॥

 यानैश्च मुख्यैः परिचारकैश्च
  सुसंवृता गच्छतु राजपुत्री ।
 वस्त्रैश्च सर्वैस्सहितैर्विधानैः
  नेयं वृता ते वरसंप्रदाने ॥ ३६ ॥

 तस्मिंस्तथा जल्पति विप्रमुख्ये
  गुरौ नृपस्याप्रतिमप्रभावे ।
 नैव स्म सीता विनिवृत्तभावा
  प्रियस्य भर्तुः [१]प्रतिकारकामा ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तत्रिंशस्सर्गः


 एवं गुरौ जल्पत्यपि पियस्य भर्तुः प्रतिकारकामा प्रतिच्छन्दा-कारसम्पादनकामा सती चीरपरिग्रहाद्विनिवृत्तभावा नैव स्म-नैवाऽभूत् । स्थाली (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तत्रिंशरसर्गः


अष्टात्रिंशस्सर्गः

[दशरथाक्रोशः]

 तस्यां चीरं वसानायां नाथवत्यां [२]अनाथवत् ।
 प्रचुक्रोश जनस्सर्वो [३]धिक् त्वां दशरथं त्विति ॥ १ ॥


  1. प्रियकारकामा-ङ.
  2. चीरपरिधानं विधवानामेव युक्तमित्यमिप्रेत्य-अनाथवदित्युक्तम् ।
  3. त्वां धिगिति दशरथं प्रचुक्रोश-इत्यन्वयः । एतत्सर्वस्यापि दशरथः खलु निदानमित्याकोशः ।