पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
376
[अयोध्याकाण्डः
दशरथाक्रोशः

 एवं भर्त्रनुरोधेन चीरग्रहं सीताया गुरुवचोबलात् राजा वारयतितस्यामित्यादि । दशरथं धिगिति जनश्चुक्रोशेति । तद्वरानन्तर्गतानिष्टां-शमपि अनिवारयन् तूष्णीं तिष्ठतीति जनाक्रोशः ॥ १ ॥

 [१]तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।
 [२]स निःश्वस्योष्णमैक्ष्वाकः तां भार्यामिदमब्रवीत् ॥ २ ॥
 सुकुमारी च बाला च सततं च सुखोचिता ।
 नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ३ ॥

 एवं श्रुतजनाक्रोशो वारयितुमुपक्रमते–सुकुमारीत्यादि ॥ ३ ॥

 इयं हि [३]कस्यापकरोति किञ्चित्
  तपस्विनी राजवरस्य पुत्री ।
 या चीरमासाद्य [४]जनस्य मध्ये
  जाता[५]विसंज्ञा श्रमणीव काचित् ॥ ४ ॥

 विसंज्ञा-अपरिचिताशक्यार्थानुष्ठानप्रसङ्गतः घूर्णितचिता । श्रमणी-भिक्षुकी-तापसी ॥ ४ ॥

 चीराण्यपास्यात् जनकस्य कन्या
  नेयं प्रतिज्ञा मम दत्तपूर्वा ।
 xथासुखं गच्छतु राजपुत्री
  वनं समग्रा सह सर्वरत्नैः ॥ ५ ॥


  1. एतदनन्तरं 'चिच्छेद जीविते श्रद्धां में यशसि चात्मनः' इत्यधिकं-ङ.
  2. एतदनन्तरं 'कैकेयि कुशचीरेण न सीता गन्तुमर्हति' इत्यधिकं-ङ.
  3. कस्यापि करोति-च.
  4. वनस्य-च.
  5. विसंज्ञा-नामजात्यादिपरिहीना, अनाथेति यावदिति वा ।