पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
377
राजानं निन्दयामासुः मना बहुविधं तदा

 चीराण्यपास्यात्-त्यजतु । तत्र हेतुमाह-नेयमित्यादि । सीतापि चीरवासिनी वनं यात्विति त्वया प्रतिज्ञाते सा प्रतिज्ञा [१]मम-मया न दत्तपूर्वा, नानुमतपूर्वा यतः तस्मादेव यथासुखं गच्छतु ॥ ५ ॥

 अजीवनार्हेण मया नृशंसा
  कृता प्रतिज्ञा [२]क्रियते न तावत् ॥
 [३] त्वया हि बाल्यात् प्रतिपन्नमेतत्
  [४] तन्मा दहेद्वेणुमिवात्मपुष्पम् ॥ ६ ॥

 अजीवनार्हेणेति । गले पादुकान्यायेन प्राप्तप्रियपुत्रवनवासानुमतिकेन-जीवनक्षमदशारहितेन मया या नृशंसा-अतिक्रूरा राम[५]विवास-विषयिणी प्रतिज्ञा कृता, सा तावत् क्रियते न ? नञ् स्वरे, तावच्छब्दो वाक्यालंकारे, क्रियत एव किलेत्यर्थः अतो यदेतदभ्यधिकं सीता वीरग्रहणमपि प्रतिपद्यसे तदेव त्वया बाल्यात्-अज्ञाना-देव प्रतिपन्नम् । नात्र ते सामर्थ्यम् । तत्-तस्मात् वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मा दहेत्-मा नाशयतु । असाध्यव्यापाराद्विरमेत्यर्थः ॥ ६ ॥

 [६]रामेण यदि ते, पापे ! किञ्चित्कृतमशोभनम् ।
 अपकारः क इह ते वैदेह्या दर्शितोऽधमे ! ॥ ७ ॥

 क इहेति । चीरग्रहणपूर्वकवनवासप्रयोजनक इति दर्शितः-सम्पादितः ॥ ७ ॥


  1. मम प्रतिज्ञेति वाऽन्वयः
  2. नियमेन सर्वत्रैवंपाठः ।
  3. बाल्यात् बालिशत्वात् एतत् प्रतिज्ञान त्वया प्रतिपन्नं, तत् मत्कृतप्रतिज्ञानं आत्मपुष्पं वेणुमिव मां दहेत-गो. वेणूनां पुष्पोद्गमने सति नाश इति प्रसिद्धम् ।
  4. तन्मां-ङ.
  5. वनवास-ट.
  6. कोपे रामापराधमभ्युपेत्याइ-रामेणेति- गो.