पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५ सर्गः]
357
मा गच्छ मातुस्ते मार्गे साधुलोकविनिन्दिते

 एवमुक्तो नृपश्च तां प्रत्युवाच-हे देवि ! यदि ते शंसामि बरस्वरूप तत्प्रदातारं च, ततो मे अनन्तरमेव सद्यो मरणं भविष्यति ॥

 माता ते पितरं, देवि ! पुनः केकयमब्रवीत् ।
 शंस मे जीव वा मा वा न मामपहसिष्यसि ॥ २१ ॥

 एवमुक्ते ते माताऽऽह-त्वं जीव वा म्रियस्व वा । सर्वथा शंस । तस्मिन्नवगमे मां नापहसिष्यतीति ज्ञास्य इति[१] ॥ २१ ॥

 प्रियया च तथोक्तः स केकयः पृथिवीपतिः ।
 [२] तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ २२ ॥

 एवं तयोक्तस्ते पिता, यः स्वस्य वरदः, तस्मै महर्षये तमर्थं--तदुक्तकथननिर्बन्धं तत्त्वतः कथयामास ॥ २२ ॥

 [३]ततः स वरदस्साधू राजानं प्रत्यभाषत ।
 [४]म्रियतां ध्वंसतां वेयं मा [५]कृथास्त्वं, महीपते ! ॥ २३ ॥

 ततः साधुस्स वरदः राजानं प्रत्यभाषत-म्रियतामियम् ! ध्वंसतां-प्रच्युतस्वाधिपत्या वा भवतु । तस्या वचो मा कृथा इति

 स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः
 मातरं ते निरस्याशु विजहार कुबेरवत् ॥ २४ ॥


  1. अन्यथा हि मामेवापहसितवान् भवानिति अवधारयामीस्यर्थः
  2. स्वस्मै येन वरो दत्तः तं प्रति स्वपत्नीनिर्बन्धं कथयामास
  3. एतदर्थानन्तरं 'यदि त्वं शंससे राजन् मरणं ते ध्रुवं भवेत्' इत्यधिकं-ङ.
  4. मरणं विषादिना, ध्वंसः विशरणं भृगुपातादिना । अथवा ध्वंसु गतावित्यपि सत्त्वात् यत्रकुत्रचिद्गच्छत्वित्यर्थः ।
  5. शंसीस्त्वं-ङ.