पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
356
[अयोध्याकाण्डः
कैकेयीगर्हणम्

 वेदनं कीदृशमित्यतस्तत्प्रतिपादयति-पितुरित्यादि । वरदः-कश्चिदृषिरिति यावत् । अनुत्तमं वरं-अव्यक्तवाग[१]वर्ण्यसर्वभूतरुतपर-स्परबोधनीयार्थज्ञानविषयकं । तस्मात् उक्तलक्षणवरदानबलादेव । स वसुधाधिपः सर्वभूतरुतं-तत्प्रतिपाद्यभावजातं संजज्ञे-जानीते स्म । तिर्यग्गतानामिति । तिर्यक्स्रोतोगतपशुपक्ष्यादीनामित्यर्थः ॥ १७ ॥

 ततो [२]जृम्भस्य शयने विरुताद्भूरिवर्चसः ।
 पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥ १८ ॥

 ततः-तत एव हेतोः कदाचिच्छयने शयानो राजा जृम्भस्य-तदाख्यस्य पक्षिणो विरुतान् श्रुत्वा मूरिवर्चसस्ते पितुस्तस्य पक्षिणो भावः-अभिप्रायः विदितः-अवगतः अतः तत्र-शयने शयान एव बहुधाऽहसत्-भावपरिज्ञानजसन्तोषेण द्विस्त्रिरहसत् ॥ १८ ॥

 तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
  [३]वरं [४]ते, नृपते ! सौम्य ! जिज्ञासामीति चाब्रवीत् ॥ १९ ॥

 अथ तत्र शयने शयाना ते जननी क्रुद्धाऽभवत्-मामयं परिहसतीति । अथ राज्ञा तु, हासस्त्वद्विषयको न भवति, कश्चन वरोऽस्ति, तेन मे भूतान्तरभावज्ञानसामर्थ्यमस्ति, अतस्तज्ज्ञानादहासिषमित्युक्ते, हे नृपते ! तं वरं जिज्ञासामि । कीदृशोऽसौ । केन प्रोक्तमिति जिज्ञासामीत्यब्रवीत् ॥ १९ ॥

 नृपश्चोवाच तां देवीं, देवि ! शंसामि ते यदि ।
 ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २० ॥


  1. वर्ण-ट.
  2. जृंभस्य-पिपीलिकाविशेषस्य-गो.
  3. हासं-ड..
  4. ते हासं-हासकारणं-गो.