पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५. सर्गः]
355
न युक्तं, देवि ! रामस्य गुणिनो विप्रवासनम्

 [१]आम्रं छित्वा कुठारेण निम्बं [२]परिहरेत्तु [३]यः ।
 यश्चैनं पयसा सिञ्चन्नैवास्य मधुरो भवेत् ॥ १४ ॥

 अथान्यापदेशेन राजानमनुक्रोशति-आम्रमित्यादि । परिहरेदिति । निम्बोपरोधमिति शेषः । एनं-निम्बम् । नैवास्येति । एवं निम्बस्य दोहलं कुर्वतोऽपि पुरुषस्य प्रीतये न मधुरो भवेत्-मधुररसो भवेत् । अतो वृथा श्रमोऽयं कैकेय्यनुवर्तन राज्ञ इत्याशयः ॥ १४ ॥

 [४][५]आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च ।
 न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ १५ ॥

 एवं कोपवचनान्युक्त्वा मर्मवचनमप्याह-आभिजात्यमित्यादि । ते मातुराभिजात्यं-प्रशस्त मातापितृजन्मोचितव्यवहारवत्त्वरूपं यथा, तथैव ते आभिजात्यमपीति । कारणानुसारेण हि कार्यम् । तदेव दर्शयति–न हीत्यादि । निम्बात् क्षौद्रं न स्रवेदिति वचो लोके निगदितं-लोकप्रसिद्धमेव किलेत्यर्थः ॥ १५ ॥

 तव मातुरसद्ग्राहं विद्म पूर्वं यथाश्रुतम् ।

 ननु का मे मातुराभिजात्यक्षतिरित्यत्राह-तवेत्यादि । असद्ग्राहं-घोरपापकर्माभिनिवेशम् । पूर्वं यथा-येन प्रकारेण श्रुतं तथा तत् संप्रति विद्मः, 'विदो लटो वा' इति मादेशः ॥

 पितुस्ते वरदः [६]कश्चित् ददौ वरमनुत्तमम् ॥ १६ ॥
 सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः ।
 तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ १७ ॥


  1. निम्बं यः पारचरेत्-लवालादिकरणेन संरक्षेत्-गो.
  2. परिचरे-ङ.. च.
  3. कः-च.
  4. अभिजातं-अभिजननं, स्वभाव इति यावत्-गो.
  5. अभिजातं-ङ.
  6. कश्चित्–योगी गन्धर्व इति श्रुतम्-गो.