पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
354
[अयोध्याकाण्डः
कैकेयीर्गहणम्

 न च ते विषये [१]कश्चिद्ब्राह्मणो वस्तुमर्हति ।
  [२]तादृशं त्वममर्यादें अद्य कर्म चिकीर्षसि ॥ ११ ॥

 तादृशमिति । ब्राह्मणवासानर्हमिति यावत् । अमर्यादं-अति-क्रमितज्येष्ठराज्यादिव्यवहारम् ॥ ११ ॥

 आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
 आचरन्त्या न[३]विदृता सद्यो भवति मेदिनी ॥ १२ ॥

 आश्चर्यमित्यादि । यस्यास्ते ईदृशममर्यादमतिघोरं वृत्तं-चरित्रमस्ति इदमाश्चर्यमिति पश्यामि । लोक एतादृशस्याननुभूताश्रुतपूर्वत्वा-दत्याश्चर्यमेव पश्यामि । अपि चैवंविधं घोरमाचरन्त्या त्वया हेतुभूतया मही सद्यो न विद्यता-विदीर्णेतीदमप्याश्चर्यम् । एतादृश महाऽन्याये मह्या तथा किल भाव्यम् ॥ १२ ॥

 [४]महाब्रह्मर्षि [५]सृष्टा वा ज्वलन्तो भीमदर्शनाः ।
  [६]धिक् त्वां दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥

 अपि च वसिष्ठादिमहाब्रह्मर्षिसृष्टाः-निर्मिताः ज्वलन्तो भीमदर्शनाः दण्डाः- कृत्यालक्षणाः रामप्रव्राजने स्थितां-कृतनिश्चयां त्वां न हिंसन्तीति यत्, अतो धिग्ब्राह्मण्यमिति शेषः ॥ १३ ॥


  1. ब्राह्मणपदं सत्पुरुषसामान्यपरम्.
  2. एतदनन्तरं अयोध्यावासिनः पौरा ये च जानपदा जनाः । नूनं सर्वे गमिष्यामो मार्ग रामनिषेवितम् । स्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साघुभिस्तदा। का प्रीती राज्यलामेन तव देवि भविष्यति । तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि । इत्यधिकम्-ङ.
  3. विवृता-ङ.
  4. महाब्रह्मर्षिभिः वसिष्ठादिभिः जुष्टाः प्रयुक्ताः ज्वलन्तः -तीव्राः धिग्वाग्दण्डाः-धिगित्येवं रूपा वाग्दण्डा त्वां न हिंसन्ति ? -गो. ॥ ति. ॥ इदमधप्याश्चर्यमित्यनुकर्षः-ति.
  5. जुष्टा-ङ.
  6. धिग्वाग्दण्डा-छ.