पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५ सर्गः]
353
ततः सुमन्त्रः कैकेयीं गार्हयामास दुःखितः

 यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् ।
 भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥ ५ ॥
 न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ।

 यस्यास्तवेति । यया त्वयेत्यर्थः । अतिशयेन कर्तुमशक्य अकार्यतमम् । इह-संसारे ॥ ५ ॥

 पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ ६ ॥
 यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् ।
 महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥ ७ ॥

 अन्ततः-सर्वान्ते-त्वत्कृत्य साध्यफलविचार इत्यर्थः । मचलमिव दुष्प्रकम्प्यं सन्तापयसि । राजानमिति शेषः ॥ ७ ॥

 मा वमंस्था दशरथं भर्तारं [१]वरदं पतिम् ।
 भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ ८ ॥
 [२]यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।
 इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ॥ ९ ॥

 यथावय इति । वयःक्रममनतिक्रम्येति यावत् । लोपयितुमिच्छसीति । अनादिप्रवृत्तधर्मन्यायमिति शेषः ॥ ९ ॥

 राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।
 वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ १० ॥


  1. परमं-ङ.
  2. राजमरणानन्तरं वयःक्रममनुसृत्य पुत्रा राज्यं प्राप्नुवन्तीति मर्यादा । तादृश-मर्यादापालके दशरथे सत्येव त्वं तां मर्यादां लोपयितुं इच्छसि। दशरथे सत्येव एवमुद्वेला भवसि चेत् अनन्तरं किं वा न कुर्या इत्याशयः ।