पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
352
[अयोध्याकाण्डः
कैकेयीगर्हणम्

 हाहाशब्दस्य कृतं-करणं यस्मिन् तत्तथा । कृत (६१) मानः सर्गः ॥ ६१ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे चतुत्रिंशस्सर्गः


पञ्चत्रिंशस्सर्गः

[कैकेयीगर्हणम्]

 ततो निर्धूय सहसा शिरो निश्वस्य चासकृत् ।
 पाणिं पाणौ विनिष्षिष्य दन्तान् कटकटाप्य च ॥ १ ॥

 एवं सपरिकरस्य राज्ञः परमशोके प्राप्ते सुमन्त्रो महदन्याय्यमिति कैकेयीं प्रत्याह-तत इत्यादि । शिरो निर्धूयेत्यादि कोपविकाराभिनयः । कटकटाप्येति । कटकटशब्दात्तत्करोतीति ण्यन्ताल्ल्यप् ॥ १ ॥

 लोचने कोपसंरक्ते [१]वर्णं पूर्वोचितं जहत् ।
 कोपाभिभूतस्सहसा सन्तापमशुभं गतः ॥ २ ॥

 लोचने कोपसंरक्ते कृत्वेति शेषः ॥ २ ॥

 मनस्समीक्षमाणश्च सूतो दशरथस्य सः ।
 कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ ३ ॥

 मनस्समीक्षमाणः-कैकेयीविषये स्नेहाभावं जानन् ॥ ३ ॥

 वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव [२]चाशुगैः ।
 कैकेय्यास्सर्व[३]मर्माणि सुमन्त्रः प्रत्यभाषत ॥ ४ ॥


  1. वर्ण-देहकान्तिं मुखकान्तिं वा जहत् परित्यजन् ।
  2. चाशुभैः-ङ.
  3. कर्माणि-ङ.