पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
351
हाहाकारस्तदा तत्र दारुणः समजायत

 न मे तथा, पार्थिव [१]धीयते मनः
  महत्सु कामेषु न चात्मनः प्रिये ।
 यथा निदेशे तव शिष्टसंमते
  व्यपैतु दुःखं तव मत्कृतेऽनघ ! ॥ ५७ ॥
 तदद्य नैवानघ ! राज्यमव्ययं
  न सर्वकामान्न सुखं न मैथिलीम् ।
 [२]जीवितं त्वामनृतेन योजयन्
  वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥
 फलानि मूलानि च भक्षयन् वने
  गिरींश्च पश्यन् सरितः सरांसि च ।
 वनं प्रविश्यैव विचित्रपादपं
  सुखीभविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥
 [३]एवं स राजा व्यसनाभिपन्नः
  [४] [५]शोकेन दुःखेन च ताम्यमानः ।
 आलिङ्गय पुत्रं सुविनष्टसंज्ञः
  [६]मोहं गतो नैव [७]चिचेष्ट किश्चित् ॥ ६० ॥
 देव्यस्ततो संरुरुदुस्समेताः
  [८]तां वर्जयित्वा नरदेवपत्नीम् ।
 रुदन् सुमन्त्रोऽपि जगाम मुर्छां
  हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्त्रिंशसर्गः



  1. दीयते-ङ.
  2. चिन्तितं-ङ.
  3. उक्तवन्तमिति शेषः । एवमुक्तान्तं पुत्रमालिंग्येत्यन्वयः
  4. शोकः त्वग्दा-होत्यादकः, दुःखं-अन्तर्व्यथोत्पादकम्-गो.
  5. तापेन-ङ.
  6. भूमिं-ङ.
  7. विवेद-ङ.
  8. तां वर्जयित्वा-कैकेयीं विना ।