पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
350
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 पिता हि दैवतं, तात ! देवतानामपि स्मृतम् ।
 [१]तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥
 चतुर्दशसु वर्षेषु गतेषु, नरसत्तम !
 पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥ ५३ ॥

 विमुच्यतामिति । इदानीमिति शेषः ॥ ५३ ॥

 येन संस्तंभनीयोऽयं सर्वो बाष्पकलो जनः ।
 स त्वं, पुरुषशार्दूल ! किमर्थं विक्रियां गतः ॥ ५४ ॥

 येनेति । त्वयेत्यर्थः ॥ ५४ ॥

 पुरं च राष्ट्रं च मही [२] च केवला
 मया विसृष्टा भरताय दीयताम् ।
 अहं निदेशं भवतोऽनुपालयन्
 वनं गमिष्यामि [३]चिराय सेवितुम् ॥ ५५ ॥

 केवला-कृत्स्नेति यावत् ॥ ५५ ॥

 मया विसृष्टा भरतो महीमिमां
 सशैलपण्डां सपुरां सकाननाम् ।
 [४][५]शिवां सुसीमामनुशास्तु केवलं
 त्वया यदुक्तं, नृपते ! तथाऽस्तु तत् ॥ ५६ ॥

 त्वया यदुक्तमिति । कैकेयीमिति यावत् ॥ ५६ ॥


  1. 'भव राजा निगृह्य माम्' इति वचनमपि पितुरेव । अथापि स्वस्य वनवासो महाक्लेशप्रद इति व्यधया राजा तथा वदतीति ज्ञात्वा रामः वनवासे स्वस्य क्लेशाभावमाह
  2. सकानना-ङ.
  3. चतुर्दशसमा इत्यर्थः । पितृवाक्यपरिपालननिमित्तं यावज्जीवमपि वने वसेयं, किं चतुर्दशवर्षमात्रेणेति द्योतयितुं चिरायेत्युक्तिः ।
  4. शिवामिस्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यते-गो.
  5. शिवासु सीमास्वनु ङ.