पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
349
प्रस्थितान् नो वनं राजन् ! अनुजानीहि मा चिरम्

 यथानिदेशं कर्तुं वै तवैव, रघुनन्दन ! ॥ ४५ ॥
 अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः ।
 न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितांपतिः ॥ ४६ ॥
 नैवाहं राज्यमिच्छामि न सुखं न च [१]मैथिलीम् ।
 नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ॥ ४७ ॥
 त्वामहं सत्यमिच्छामि नानृतं, पुरुषर्षभ !
 प्रत्यक्षं तव सत्येन सुकृतेन च [२]ते शपे ॥ ४८ ॥

 प्रत्यक्षं तवेति । तव सन्निधावित्यर्थः ॥ ४८ ॥

 न च शक्यं मया, तात ! स्थातुं क्षणमपि, प्रभो !
 [३]स शोकं धारयस्वैनं, न हि मेऽस्ति विपर्ययः ॥ ४९ ॥

 क्षणमपीति। इह पुर इति शेषः । विपर्ययः-विपरीतानुष्ठानं-इहाद्य स्थितिरूपम् ॥ ४९ ॥

  [४]अर्थितो ह्यस्मि केकैय्या वनं गच्छेति, राघव !
 मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥

 वनं गच्छेति । अद्यैवेति शेषः ॥ ५० ॥

 मा चोत्कण्ठां कृथाः, देव ! वने रंस्यामहे वयम् ।
 प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥

 उत्कण्ठा-शोकातुरतया स्मरणम् । रंस्यामह इति सीतासौमित्रिसम्बन्धात् ॥ ५१ ॥


  1. मेदिनीम्-ङ.
  2. ते-तुभ्यं.
  3. न शोकं-ङ. च.
  4. हे राघव-राम वनं गच्छ इति कैकेय्या आर्थितोऽस्मि इत्यन्वयः.