पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

गुणान्-धर्मान् श्वः प्रस्थाने सति कः प्रदास्यति । [१]प्रत्युत केवल- मसत्यदोष एवावशिष्यते । अतोऽद्यैवापक्रमणं-- इतो गमनं सर्वकामैः- सर्वात्मना उत्कटप्रवृत्तजिगमिषया वृणे ॥ ४० ॥

 इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
 मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥
 वनवासकृता बुद्धिर्न च मेऽद्य [२]विलीष्यति ।

 तस्मात् मया विसृष्टा वसुधा भरताय प्रदीयतां, अद्यैव मत्सन्नि-धाविति शेषः । अद्य वनवासकृतेति । अद्यैव वनवासे निश्चिता मे बुद्धिः न विलीष्यति । अतः श्वो गमिष्यसीति मा ब्रूहीत्यर्थः ॥ ४१ ॥

 [३]यस्तुष्टेन वरो दत्तः कैकेय्यै, वरद ! त्वया ॥ ४२ ॥
 दीयतां निखिलेनैव सत्यस्त्वं भव, पार्थिव !

 निखिलेनैवेति । अद्यैव मद्वनप्रस्थापनेनेति शेषः । तदा किल निखिलेन-सर्वात्मना सत्यः-सत्यप्रतिज्ञः भविष्यसि । अतोऽद्यैव मां वनं प्रस्थाप्य त्वं सत्यो भव ॥ ४२ ॥

 अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ ४३ ॥
 चतुर्दशसमा वत्स्ये वने वनचरैः सह ।
 मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ ४४ ॥
 न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् ।

 विमर्शः--भरताय दानविचारः मा स्तु । कथमेवमित्यतः-न हीत्यादि । आत्मनि सुखं-स्वसौख्यमित्यर्थः ॥ ४४ ॥


  1. ' कैकेय्या चोधमानस्तु मिथः' इति पूर्वं कथनात् कैकेय्याः प्रियसंपादनरूपगुणोऽपि विवक्षितः ।
  2. चलिष्यति-ङ.
  3. यस्तु युद्धे-ङ.