पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
347
लब्धसंज्ञं ततस्तातं रामो वचनमब्रवीत्

 न चैतन्मे प्रियं, पुत्र ! शपे सत्येन, राघव !
 छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ॥ ३६ ॥

 तदेव दर्शयति–न चैतदित्यादि । इहेति शेषः । चलित इत्यादि । भ्रंशितत्वदाभिषेकमनोरथ इत्यर्थः ॥ ३६ ॥

 वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।
 अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ ३७॥
 न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठस्सुतो मम ।
 अपानृतकथं, पुत्र ! पितरं कर्तुमिच्छसि ॥ ३८ ॥

 या तु वञ्चना मे-मत्सकाशात् लब्धा वनप्रस्थानलक्षणा । वृत्तसादिन्या-कुलोचितचरितनाशिन्या चोदितोऽपि सन् पितरं मां अपानृतकथं-अपगतानृतकथनं कर्तुमिच्छसि-इति यत्–नैतदाश्चर्यं । यत्-यस्मात् त्वं ज्येष्ठः ज्येष्ठगुणः प्रथमस्सुतश्चासि तस्मात्तथा ॥ ३८ ॥

 अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।
 लक्ष्मणेन सह भ्रात्रा [१]दीनो वचनमब्रवीत् ॥ ३९ ॥

 आर्तस्य भाषितं श्रुत्वेति । 'एकाहदर्शनेनापि' इत्यायुक्तरूपं श्रुत्वेत्यर्थः । दीन इति । एकरात्रमपि पितृसुखाय-कैकेय्या अद्यैव गच्छेति नियोगात्-स्थातुमशक्यमभूदिति प्राप्तशोक इत्यर्थः ॥ ३९ ॥

 प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
 अपक्रमणमेवातः [२]सर्वकामैरहं वृणे ॥ ४० ॥

 प्राप्स्यामीत्यादि । अद्य-अस्मिन्नेव दिवसे प्रयाणे सति यान्गुणान्-अद्यैव गच्छेति नियोगे अद्यैव गच्छामीत्याश्रुतपरिपालनजान्


  1. अदीन इति पदम्-शि.
  2. तर्पितस्सर्वकामैस्त्वं, इत्यस्योत्तरं इदं । सर्वकामैरपि अपक्क्रमणमेव वृणे इत्युके–सर्वकामानां वरणापेक्षया अपक्रमणमेव वृणे इत्यर्थः ।