पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
346
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 श्रेयसे-परलोकहिताय वृद्धये-इहलोकाभ्युदयाय च । रिष्टं-पापं-दुःखं च अरिष्टं-स्वस्स्ययनं अस्तु ते । अव्यग्रस्सन् अकुतोभयं पन्थानं गच्छस्व ॥ ३१ ॥

 न हि सत्यात्मनः, तात ! धर्माभिमनसस्तव ।
 विनिवर्तयितुं बुद्धिः शक्यते, रघुनन्दन ! ॥ ३२ ॥

 सत्यात्मनः-सत्यप्रतिष्ठितस्वभावस्य । अत एव धर्माभिमनसः-धर्मसंपादनाभिगतमनस्कस्य ॥ ३२ ॥

 अद्य त्विदानीं रजनी, पुत्र ! मा गच्छ सर्वथा ।
 एकाहदर्शनेनापि [१]साधु तावच्चराम्यहम् ॥ ३३ ॥

 प्रातरेव कैकेय्या प्रस्थापितस्य मात्राद्यनुनययात्रादानादिना आसायं व्यापृतस्य सायं राजानुमत्यर्थमागतस्य राज्ञा प्रवृत्तरजनीसहवासः प्रार्थ्यते-अद्येत्यादि । अद्य-अस्मिन् दिवसे इदानीं संप्रवृत्तां रजनीं इह वस, सर्वथा मा गच्छ । किमर्थमित्यतः-एकाहेत्यादि । चरामि-वर्ते-भोक्ष्यामि च ॥ ३३ ॥

 मातरं मां च संपश्यन् वसेमामद्य शर्वरीं ।
 तर्पितः सर्वकामैस्त्वं श्वः [२]काले साधयिष्यसि ॥ ३४ ॥

 साधयिष्यसि-गमिष्यसि ॥ ३४ ॥

 दुष्करं क्रियते, पुत्र ! सर्वथा, राघव ! त्वया ।
 मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ ३५ ॥

 मत्प्रियार्थं—मम परलोकसौख्यार्थमित्यर्थः ॥ ३५ ॥


  1. साधु-सुखं-गो.
  2. कास्ये-ङ.