पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
345
सान्त्वयामास रामस्तु पितरं धर्मवत्सलः

 एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
 प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥

 भवान् वर्ष[१]सहस्राय पृथिव्याः, नृपते ! पतिः ।
 अहं त्वरण्ये वत्स्यामि [२]न मे [३]कार्यं त्वयाऽनृतम् ॥ २८ ॥

 वर्षसहस्राय पतिर्भव-इतः परमप्यनेककालं पतिर्भवेत्यर्थः । न मे कार्यं त्वयाऽनृतमिति । त्वया दत्तं यत् वरद्वयं तन्मे-मया अनृतं-असत्यं न कार्यं-कर्तुं न योग्यं । तव नरकपातप्रसङ्गादित्याशयः ॥

 नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
 पुनः पादौ ग्रहीष्यामि [४]प्रतिज्ञान्ते, नराधिप ! ॥ २९ ॥

 यदेवमतो–नवेत्यादि । हे नराधिप ! पुनरागम्य ते पादौ ग्रहीष्यामीति । प्रतिज्ञान्ते सतीति योजना ॥ २९ ॥

 रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः ।
 कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ३० ॥

 चोद्यमान इति । अद्यैव गमनमनुमन्यस्वेति कैकेय्या मिथः-रहसि चोद्यमान इत्यर्थः ॥ ३० ॥

 श्रेयसे वृद्धये, तात ! पुनरागमनाय च ।
 [५]गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥


  1. सहस्रायुः-ङ.
  2. मे-मह्यं, मत्कृते इति यावत्, त्वया अनृतं न कार्यमित्यर्धः । न मे कार्यस्त्वमानृत इति तीर्थसम्मतपाठः । त्वं आनृतः-ईषदनृत युक्तोऽपि न कार्यः इति व्याख्यातम्.
  3. कार्यस्त्वमानृतः- ङ.
  4. प्रतिज्ञान्ते-चतुर्दशवर्षानन्तरं, स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यमिप्रायः-सत्य.
  5. गच्छस्व-गच्छ अरिष्टं-शुभं । 'अरिष्टे तु शुभाशुभे' इत्यमरः-गो.