पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
344
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 आपृच्छे त्वां, महाराज ! सर्वेषामीश्वरोऽसि नः ।
 प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २२ ॥

 कुशलेन मां पश्येति । सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ॥ २२ ॥

 लक्ष्मणं चानुजानीहि सीता [१]चान्वेति मां वनम् ।
 [२]कारणैर्बद्दुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २३ ॥

 ननु लक्ष्मणसीतयोः कुतो वनवासकष्टप्राप्तिः ; न ह्यसौ वरनिर्बन्धप्राप्त इत्यतः–कारणैरित्यादि । हेतुभिरित्यर्थः । तथ्यैः-परमार्थतयोपन्यस्यमानैः । नेच्छत इति । इह स्थातुमिति शेषः ॥ २३ ॥

 अनुजानीहि सर्वान्नः शोकमुत्सृज्य, मानद !
 लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २४ ॥
 प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।
 उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥

 वनवासायानुज्ञां प्रतीक्षमाणं-अनुमतिं प्रार्थयमानम् ॥ २५ ॥

 अहं, राघव ! कैकेय्या वरदानेन [३]मोहितः ।
 अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥

 हे राघव ! अहं कैकेय्या वरदानेन हेतुना मोहितः-निरुतरतया शोकपरवशो जातः ; अतो राज्यव्यापारानर्हः । अतो मां निगृह्य-निरुध्य राज्यशासनं कृत्वा अयोध्यायां त्वमेव स्वभुजवैभवेन राजा भव । प्रवृत्तमभिषेकं समापयेति यावत् ॥ २६ ॥


  1. चान्वेतु-ङ.
  2. तथ्यैर्बहुभिः कारणैः मामन्वेति, अत एव वार्यमाणावपि न चेच्छतः इति वा ।
  3. मोहितः-वञ्चितः-गो.