पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
343
तान् दृष्ट्वा नृपतिर्दु:खात् पपात भुवि मूर्छितः

 सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपति;
 तमप्राप्यैव दुःखार्तः पपात भुवि मूर्छितः ॥ १७ ॥

 तमप्राप्पैवेति । आलिलिङ्गिषितपुत्रमसंप्राप्य मध्येमार्गं दुःखमूर्छितः पपात ॥ १७ ॥

 तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महायशाः ।
 विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥

 तं पतितं नृपतिं रामःक्षिप्रमभ्यपतत्-अभ्यागतवान् । विसंज्ञमिथ-विसंज्ञमेव ॥ १८ ॥

 [१]स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।
 हा हा रामेति सहसा भूषणध्वनिमिश्रितः ॥ १९ ॥

 भूषणध्वनिमिश्रित इति । उरश्शिरस्ताडनादिप्रचलत्प्रभ्रश्यद्भूषणध्वनिभिर्मिश्रितस्तथा ॥ १९ ॥

 तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।
 पर्यङ्के सीतया सार्धं[२]रुदन्तः समवेशयन् ॥ २० ॥

 सीतया सार्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समावेशयन् ॥ २० ॥

 अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।
 उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ २१ ॥


  1. स्त्रीणां-दाराणां तथा इतरासां दास्यादीनां च । तेन पूर्वं सारत्रिशतत्वोक्ते रविरोधः-सत्य. । सहस्रपदं अनेकपरं वा । अन्यथा तावन्निष्कर्षेण वचनासंभवः, एकद्यादीनां न्यूनाधिक्यसंभवात् ।
  2. रुदन्तं-ङ.