पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
342
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 सुमंत्रेत्यादि । हे सुमंत्र ! इह-मद्वेश्मनि ये केचिन्मामका दाराः-स्त्रियस्सन्ति तान्सर्वान्दारानिहानय ॥ १० ॥

 सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।
 [१]आर्याः ! ह्वयति [२]वो राजाऽऽगम्यतां तत्र मा चिरम् ॥

 अतीत्य-अतिवेगेन प्राप्येत्यर्थः । आगम्यतामिति पदम् ॥

 एवमुक्ताः स्त्रियस्सर्वाः सुमंत्रेण नृपाज्ञया ।
 प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥

 प्रचक्रमुः-गच्छन्ति स्म । तद्भवनं-तस्य राज्ञो भवनम् ॥ १२ ॥

 अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।
 कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १३ ॥

 अर्धं सप्तशतस्येत्येकदेशिसमासः । ताम्रलोचना इति । रामप्रयाणश्रुतिजदुःखरोदनादिति शेषः । कौसल्यां परिवार्येत्यनेन प्राग्लक्ष्मणोक्तं सर्वधारणसमर्थसर्वप्रभ्वीत्वं द्योतितम् ॥ १३ ॥

 आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
 उवाच राजा तं सूतं सुमंत्रानयं मे सुतम् ॥ १४ ॥
 स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।
 जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ १५ ॥
 स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।
 उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥

 उत्पपातेत्येतदालिङ्गनार्थम् ॥ १६ ॥


  1. आर्यो-ङ.
  2. वो राजा, अवैधव्यदत्वात्; न तु प्रजानां, तासां दुःखदत्त्वात्-ति.