पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ सर्गः]
341
ससीतालक्ष्मणो रामः पितुर्गेहमथाविशत्

 आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् ।
 राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ ४ ॥

 राममेवानु-उद्दिश्य ॥ ४ ॥

 तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा ।
 भयविक्लवया वाचा मन्दया [१] श्लक्ष्णमब्रवीत् ॥ ५ ॥

 वर्धयित्वा-संपूज्य । भयविक्लवयेति । रामो वनप्रयाणोद्युक्त इतीदं परमानिष्टं कथं राज्ञे वदिष्यामीति भयेन विक्लवा-कातरा तया ॥

 अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।
 ब्राह्मण्येभ्यो धनं दत्वा सर्वञ्चैवोपजीविनाम् ॥ ६ ॥

 सर्वं धनं दत्त्वेत्यनेन सर्वथैव तिष्ठासाभावो द्योत्यते ॥ ६ ॥

 स त्वां पश्यतु, भद्रं ते, रामस्सत्यपराक्रमः ।
 सर्वान् सुहृद आपृच्छय त्वां हीदानीं दिदृक्षते ॥ ७ ॥
 [२]गमिष्यन्तं महारण्यं तं पश्य, जगतीपते !
 वृतं राजगुणैस्सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥
 [३]सत्यवादी धर्मात्मा गांभीर्यात्सागरोपमः ।
 आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ ९ ॥

 सः सत्यवादी दशरथः ॥ ९ ॥

  [४]सुमंत्रानय मे दारान् ये केचिदिह मामकाः ।
 दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ॥ १० ॥


  1. श्लक्ष्णयाब्रवीत् ङ.
  2. गमिष्यति-ङ.
  3. सत्यवाक्यो-ङ.
  4. मे दारान्-कौसल्यां, ये केचिदन्ये मामका दारास्तांश्च । एवं व्याख्याने कोसल्यां परिवार्य' इत्यानुरूप्यम् ।