पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
340
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 पितुर्निदेशेन तु धर्मवत्सलो
  वनप्रवेशे कृतबुद्धिनिश्रयः ।
 स राघवः प्रेक्ष्य सुमंत्रमब्रवीत्
  निवेदयस्वागमनं नृपाय मे ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः


 कलि (३१) मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायं अयोध्याकाण्डे त्रयस्त्रिंशस्सर्गः


चतुस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्]

 ततः कमलपत्राक्षः श्यामो [१]निरुदरो महान् ।
 उवाच रामस्तं सूतं [२]पितुराख्याहि मामिति ॥ १ ॥

 अथ सभार्यस्य सभ्रातृकस्य रामस्य वनवासानुमतिप्रार्थनम् । तत इत्यादि । श्यामः-श्यामवर्णो युवाऽपि ॥ १ ॥

 स रामप्रेषितः क्षिप्रं सन्तापकलुषे[३]न्द्रियः ।
 प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ २ ॥
 उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।
 तटाकमिव निस्तोयमपश्यञ्जगतीपतिम् ॥ ३ ॥


  1. निरुपमो-ङ. झ.
  2. निवेदयस्वागमनं नृपाय मे' इति पूर्वस्मिन् श्लोके कथितेऽपि त्वरातिशयादभ्यासः। अथवा निरुत्सुकत्वात् तूष्णीं स्थितस्य सुमन्त्रस्य पुनः प्रतिबोधनाय वाऽभ्यास: ।
  3. न्द्रियं-ङ.