पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ सर्गः]
339
कैकेयीं गर्हयामासुस्संतप्ता बहुधा जनाः

 तृणादीनामादानं येभ्यो वनदेशेभ्यस्तथा । व्यालादयश्च येषु तथा ॥ २५ ॥

 इत्येवं विविधा वाचो नानाजनसमीरिताः ।
 शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ २६ ॥

 न विचक्रे-विकारं न प्राप ॥ २६ ॥

 स तु वेश्म [१]पितुर्दूरात् कैलासशिखरप्रभम् ।
 अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥
 विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
 ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥

 [२]प्रतीक्षमाणोऽपि जनं तदाऽऽर्तं
  अनार्तरूपः प्रहसन्निवाथ ।
 जगाम रामः पितरं दिदृक्षुः
  पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २९ ॥

 आर्तं-खिन्नम् ॥ २९ ॥

 तत्पूर्वमैक्ष्वाकसुतो महात्मा
  रामो गमिष्यन् वनमार्तरूपम् ।
 व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं
  पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥

 तत्पूर्वं-तदारभ्येति यावत् । आर्तरूपं-दुःखरूपं । पितुः प्रतिहारणार्थं-निवेदनार्थं सुमन्त्रं प्रेक्ष्य तत्प्रतीक्षां कृत्वा व्यतिष्ठत ॥


  1. पुनर्मातु:-ङ.
  2. प्रतीक्षमाणः-पश्यन् ।