पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
338
[अयोध्याकाण्डः
पौरवाक्यम्

 रजसाऽभ्यवकीर्णानि परित्यक्तानि देवतैः ।
 [१]मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥ १९ ॥

 उद्विलैः-उत्सृष्टबिलैः ॥ १९ ॥

 अपेतोदकधूमानि हीनसंमार्जनानि च ।
 प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ॥ २० ॥
 दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ।
 अस्मत्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥

 दुष्कालः-राजिकदैविकक्षोभकालः ॥ २१ ॥

 वनं नगरमेवास्तु येन गच्छति राघवः ।
 अस्माभिश्व परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥
 बिलानि दंष्ट्रिगस्सर्वे सानूनि मृगपक्षिणः ।
 त्यजन्त्वस्मद्भयाद्गीता गजास्सिह्मा वनान्यपि ॥ २३ ॥
 [२]अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ।

 दंष्ट्रिणः-सर्पाः । सानूनि-पर्वतप्रस्थाः । अस्मत्यक्तमिति । पुरमिति शेषः। सेव्यमानं-अस्माभिराश्रियमाणं । वनमिति शेषः ॥

 [३]तृणमांस [४]फलादानं देशं व्यालमृगद्विजम् ॥ २४ ॥
 प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः ।
 राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥ २५ ॥


  1. मूषिकैः-ङ.
  2. अस्मद्युक्तं-ङ.
  3. व्यालमृगद्विजमिति बहुव्रीहिः । व्यालमृगद्विजैर्विशिष्टं तृणमांसफलादानां देशं-काननीभूतं देशमिति यावत् । अर्थात् तृणादाः-मृगाः, मांसादाः-व्यालाः, फलादाः-पक्षिणः ।
  4. फलादानां-ङ.