पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ सर्गः]
337
रथ्यायां गच्छतस्तांस्तु पौरा दीना व्यलोकयन्

 तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
 औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥

 औदकानि-उदकजीवनानि ॥ १३ ॥

 पीड्या पीडितं सर्वं जगदस्य जगत्पतेः ।
 मूलस्येवोपघातेन वृक्षः पुष्प[१].फलोपगः ॥ १४ ॥

 पुष्पफलैः उपगः-उपगमो यस्य ॥ १४ ॥

 मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः ।
 पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ १५ ॥
 ते लक्ष्मण इव क्षिप्रं [२]सपत्नयस्सहबांधवाः ।
 गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥

 सयत्नय इति । सपत्नीका इति यावत् । येनेति । मार्गेणेति शेषः । राघवः-रघुकुलजः ॥ १६ ॥

 उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
 एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥

 [३]एकदुःखसुखाः-समानसुखदुःखा इति यावत् ॥ १७ ॥

  [४]समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
 उपात्तधनधान्यानि [५]हृत [६]साराणि सर्वशः ॥ १८ ॥

 समुद्धृतनिधानत्वादिधर्मकानि वेश्मानि प्रतिपद्यतामित्यन्वयः ॥


  1. फलागमः-ङ
  2. सपत्नीकास्सबान्धवाः-ङ.
  3. सम-ङ.
  4. समुद्धत-ङ.
  5. दत्तसाराणि, हृतभाराणि-ङ.
  6. साराणि--शय्यासनादीनि-गो.