पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
336
[अयोध्याकाण्डः
दशरथसनाश्वासनम्

 ऐश्वर्यस्य रसज्ञः सन् [१] [२] कामिनां चैव कामदः ।
 नेच्छत्येवानृतं कर्तुं [३]वचनं धर्मगौरवात् ॥ ७ ॥

 रसज्ञ इति । परिग्रहसुखज्ञ इति यावत् । वचनं-पितृवचनम् ॥

 या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
 तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥

 अद्येति । प्रयाणानुमत्यर्थदर्शनसमय इत्यर्थः ॥ ८ ॥

 अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् ।
 वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ९ ॥
 अद्य नूनं दशरथ[४] स्सत्त्वमाविश्य भाषते ।
 न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥
 निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् ।
 किं पुनर्यस्य लोकोऽयं जितो [५] वृत्तेन केवलम् ॥ ११ ॥
 आनृशंस्यमनुक्रोशः श्रुतं शीलं [६]दमश्शमः ।
 राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥

 अनुक्रोशः-दया ॥ १२ ॥


  1. कामिनां-अर्थकाङ्क्षिणां कामदः-अभीष्टप्रदः-गो.
  2. कामानां चाकरो महान् च.
  3. पितरं-ङ.
  4. सत्वं-पिशाचं आविश्व-प्राप्य-गो. सत्त्वं-सत्त्वगुणं आविश्य प्राप्य भाषते-त्वया वनं न गन्तव्यमिति राजा रामं वदिष्यतीत्यर्थः । कुतः ? न हे राजेति-ती. 'दशरथं सत्वमाविश्य' इत्यपि पाठः झ. पुस्तके.
  5. वृतेन केवलं-चरित्रमात्रेण वृत्तन केवलमित्युक्तिर्दानमानादौ विद्यमानेऽपि चरित्रप्राधान्यात्-गो.
  6. दमः-इन्द्रियनिग्रहः शमः-चित्तप्रशान्तिः शमवित्तप्रशान्तिः स्याद्वम इन्द्रियनिग्रहः' इति निर्वचनात्- गो.