पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ सर्गः]
335
ततस्तातं ययौ रामः सीतया लक्ष्मणेन च

 ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे
 मालादामभिराबद्धे सीतया सीतया [१]समलङ्कृते ॥ २ ॥

 ततो गृहीत इति । यथास्वमिति शेषः । तयोरायुधे तदायुधे ॥

 ततः प्रासादहर्म्याणि विमानशिखराणि च ।
 अधिरुह्य जनः श्रीमान् [२]उदासीनो व्यलोकयत् ॥ ३ ॥

 सप्तभूमिकः प्रासादो विमानम् । द्वित्रिभूमिकाः-केवलप्रासादाः। हर्म्यं-बद्धगृहोपरिप्रदेशः । अधिरुह्य जन इति । अधिरुह्य स्थितो यो जनः–तं जनं श्रीमानुदासीनो भूत्वा-अरिरक्षयिषितत्वेन नीरागद्वेषतो व्यलोकयत्-पश्यति स्म ॥ ३ ॥

 न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।
 आरुह्य तस्मात् [३] प्रासादाद्दीनाः पश्यन्ति राघवम् ॥ ४ ॥

 तस्मादिति । बहुजनाकुलत्वेन रथ्यायां गन्तुमशक्यत्वादेवेत्यर्थः । प्रासादमारुह्य प्रासादात्-प्रासादारोहणरूपोपायादेव पश्यति स्म । अभिषेकदर्शनाभावतो विपरीतवेषदर्शनतश्च दीनाः ॥ ४ ॥

  [४]पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा ।
 [५]ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥
 यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
 तमेकं सीतया सार्धं अनुयाति स्म लक्ष्मणः ॥ ६॥


  1. सम्यक् अलंकृते-चन्दनादिभिरित्यर्थः
  2. उदासीन:-निरुत्सुकः-निर्विण्ण इति यावत्- गो. कतकदृष्ट्या तु श्रीमान्, उदासीन इति पदद्वयं रामपरम्.
  3. 'प्रसादान् 'पा-प्रासादानारुह्येत्यन्वयः-गो.
  4. 'पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः'-झ.
  5. बहुविधाः-'इत्येवं विविधा वाचः 'इति पर्यन्तम् .