पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
334
[अयोध्याकाण्डः
दशरथसमाश्वासनम्

 चिरात् यथार्हसंमानवचीभिः सुहृज्जनैः प्रचोदितः-प्रचोदित-प्रीतिदानव्यापारः ॥ ४५ ॥

 द्विजः सुहृद्भृत्यजनोऽथवा तदा
  दरिद्रभिक्षाचरणश्च [१]यो भवेत् ।
 न तत्र कश्चिन्न बभूव तर्पितः
  यथार्हसंमाननदान [२]संभ्रमैः ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वात्रिंशः सर्गः


 भिक्षां चरतीति वा सरूपविधिना 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । दरिद्रस्सन् भिक्षा चरणस्तथा । सुप्सुपेति समासः ।[३]चर्व (४६) मानः सर्गः ॥ ४६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वात्रिंशस्सर्गः


त्रयस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्]

 दत्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
 जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥

 एवं कृतयात्रादानस्य पित्रनुमतये पितृसमीपगमनं गत्वेत्यादि ।


  1. आदरः-ति.
  2. संभ्रमः-त्वरा-गो.
  3. संभ्रमः-त्वरा-गो.