पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
333
सर्वान् सम्मानयामास यथार्ह राघवस्तदा

 ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा
  धनं [१]यदन्यन्मम विप्रकारणात् ।
 भवत्सु सम्यक्प्रतिपादनेन तत्
  मयार्जितं प्रीतियशस्करं भवेत् ॥ ४३ ॥

 इदं वचनमुपचारमात्रमिति न मन्तव्यमित्याह-ब्रवीमीत्यादि । यन्त्रणा-इतोऽभ्यधिकवरवरणसङ्कोच इत्यर्थः । कथमेवमित्यतः-धनमित्यादि । अन्यदिति । दत्तावशिष्टजीवाजीवधनमित्यर्थः । विप्रकारणात्-विप्रप्रयोजनसंपादनार्थमित्यर्थः । कथं विप्रप्रयोजनकत्वं धनस्येत्यतः-भवत्स्वित्यादि । भवत्सु-विप्रेषु सम्यक्–यथाशास्त्रं प्रतिपादनेन हेतुना मयार्जितं तद्धनं मे प्रीतियशस्करं भवेत्, न तु किञ्चिद्भूमिनिक्षिप्तेन ॥ ४३ ॥

 ततस्सभार्यस्त्रिजटो महामुनिः
  गवामनीकं प्रतिगृह्य [२] मोदितः ।
 यशोबलप्रीतिसुखोप [३]वृक्षणीः
  तदाशिषः प्रत्यवदन्महात्मनः ॥ ४४ ॥

 तदाशिषः-तस्य रामस्याशिषः[४] ॥ ४४ ॥

 स चापि रामः प्रतिपूर्णपौरुषः
  महाधनं धर्मबलैरुपार्जितम् ।
 नियोजयामास सुहृज्जने चिरात्
  [५]यथार्हसंमानवचः प्रचोदितः ॥ ४५ ॥


  1. यद्यन्मम-ङ.
  2. मोदित इत्यनेन गोभ्योऽन्यन्नापेक्षितत्रानिति गम्यते.
  3. बृह्मिणीः-ङ.
  4. तदा आशिष इति वा पदच्छेदः
  5. आहिताग्न्यादित्वान्निष्ठायाः परनिपातः, तत्तदौचित्येनाभिहितसम्मानवाक्य इत्यर्थः-गो. अत्रोत्तरश्लोकानुरूप्यञ्च ।