पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
332
[योध्याकाण्डः
यात्रादानम्

 तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ॥ ३९ ॥
 आनयामास ता गोपैः [१]त्रिजटायाश्रमं प्रति ।

 आ तस्मात्सरयूतटात्, आङ् मर्यादा । अथवा ब्राह्मणस्तृप्तो भवत्वि[२]त्यभिविधावित्येवास्तु । ताः-गाः आनयामास । [३]तास्त्रिजटाश्रमं प्रति नाययामासेति च शेषः ॥ ३९ ॥

 उवाच च ततो रामस्तं गार्ग्यमभि[४] सान्त्वयन् ॥ ४० ॥

 मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ ४१ ॥

 परिहासो ह्ययमिति । दण्डपरिक्षेपवचनरूपोऽयं विनोदार्थ एवेत्यर्थः ॥ ४१ ॥

 इदं हि तेजस्तव यद्दुरत्ययं
  तदेव जिज्ञासितुमिच्छता मया ।
 इमं भवानर्थमभि प्रचोदितः
  वृणीष्व किश्चेदपरं [५]व्यवस्यसि ॥ ४२ ॥

 अयमितीदंशब्दार्थमुक्तरूपं भगवान् दर्शयति इदं हीत्यादि । सेजः-अतिदूरपरिक्षेपणशक्तिं, वृद्धस्यापि सत इत्यर्थः, अर्थमभि-अर्थमुद्दिश्य इदं-विक्षेपणं प्रवोदितोऽमि अपरमपि-गोभ्योऽन्यमपि चरितुं व्यवस्वसि चेद्वृणीष्व ॥ ४२ ॥


  1. त्रिजटस्थाश्रमं-ङ.
  2. अन्यथा हि सरयूतटगतानां गवां परित्यागः स्यादिति भावः.
  3. त्रिजटाय.....तदर्थे आनयामास आश्रमं-त्रिजटाश्रमं प्रति नाययामास चेति वाक्वद्वयमिति भावः महेश्वरतीर्थस्तु-'त्रिजटाय-त्रिजटस्य' इति व्याचख्यौ । परन्तु तदा 'आनयामास' इत्यनन्वितम् ।
  4. हर्षयन्-ङ
  5. व्यवस्यति-ङ.