पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
331
त्रिजटाख्याय विप्राय गोसहस्रं तदा ददौ

 तमुवाच ततो रामः परिहास[१]समन्वितम् ।
 [२] गवां सहस्र[३]मप्येकं न च विश्राणितं मया ॥ ३६ ॥
 परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ।

 परिहाससमन्वितं-लीलास्मितसमन्वितं । क्रीडाप्रयोजनव्यवहारविशेषसमन्वितं चेत्यर्थः । मया तु गवामेकं सहस्रमपि विश्राणितं न ! नञ् स्वरे । तर्हि इह स्थित्वा दण्डेन यावद्दूरं परिक्षिपसि-परिगृह्णासि तावद्देशवर्तिनीः गाः अवाप्स्यस इति । ब्राह्मणस्य गोश्रद्धाप्रवृत्तिकौतुकदर्शनार्थं भगवद्वचनम् ॥ ३६ ॥

  [४]स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ॥ ३७ ॥
 आविध्य दण्डं चिक्षेप सर्वप्राणेन [५]वेगतः ।

 कट्यां परिवेष्ट्य संभ्रान्तः-त्वरितस्सन् । सर्वप्राणेन--सर्वबलेन ॥ ३७ ॥

 स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्चयुतः ॥ ३८ ॥
 गोव्रजे बहुसाहस्रे [६] पपातो[७]क्षाणसन्निधौ ।

 स दण्डः सरयूपारं-सरयूतीरं तीर्त्वा-प्राप्य बहुसाहस्रे गोव्रजे उक्षाणसन्निधौ-वृषसन्निधाविति यावत् । आनङ् छान्दसः ॥ ३८ ॥


  1. समन्वितः-ङ.
  2. असंख्यातानां गवां मध्ये एकमपि सहस्रं मया न विश्राणितम्........एकं गोसहस्रमात्रं न दत्तं, अन्वत्सर्वं दत्तमिति नार्थः बहुसाहस्रे इत्यादिवक्ष्यमाणेन विरोधात्, अपिशब्दस्वारस्याच्च-गो.
  3. मस्त्येकं-ङ.
  4. कट्यां शाटीपरिवेष्टनं बलोत्तंभनाय-गो. अन्यथा खलु दण्डक्षेपकाले प्रतिरोधः स्यात्.
  5. वेगितः-ङ.
  6. उक्षणसन्निधौ-उक्षसन्निधौ-'वष्टि भागुरिः' इत्यादिरीत्या अकारान्तत्वम्-गो
  7. क्षण, क्ष्णां च-ङ.