पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
330
[अयोध्याकाण्डः
यात्रादानम्

 तं वृद्धं तरुणी भार्या बालानादाय दारकान् ॥ ३० ॥
 अब्रवीद्ब्राह्मणं वाक्यं[१][२] दारिद्य्रेणाभिपीडिता ।

 दारकाः-पुत्राः ॥ ३० ॥

 अपास्य फालं कुद्दालं कुरुष्व वचनं मम ॥ ३१ ॥
 रामं दर्शय धर्मज्ञं यदि [३] किञ्चिदवाप्स्यसे ।

 दर्शयेति । सभार्यापुत्रमात्मानमिति शेषः । 'गतिबुद्धि' इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा सर्वथा किञ्चिदवाप्स्यसे ॥

 स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥ ३२ ॥
 स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ।

 दुश्छदां-अतिजीर्णत्वाच्छादयितुमशक्यां । यत्र रामनिवेशनं-यस्मिन् पथ्याश्रिते रामनिवेशनं प्राप्यते तादृशं पन्थानमास्थाय प्रातिष्ठत ॥ ३२ ॥

 [४][५]भृग्वङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि ॥ ३३ ॥
 आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् ।

 दीप्त्या-ब्रह्मवर्चसेन ॥ ३३ ॥

 स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् ॥ ३४ ॥
 निर्धनो बहुपुत्रोऽसि, राजपुत्र ! महायशाः !
  [६]उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३५ ॥
 मां प्रत्यवेक्षस्वेति । मयि कृपां कुर्वित्यर्थः ॥ ३५ ॥


  1. 'स्त्रीणां भर्ता हि देवता' इति पाठे न स्वातन्त्र्येण तथा रामसमीपं गन्तुं युक्तम्, अतः भर्तारमब्रवीदिति भावः ।
  2. स्त्रीणां भर्ता हि देवता-ङ. च.
  3. किचिदिति स्वदौर्भाग्यस्मरणेन । सन्तुष्ट्या वा ।
  4. अकारान्तत्वमार्षम्-गो.
  5. भृग्वङ्गिरस्समं-ङ. च.
  6. क्षतवृत्ति-ङ. च.