पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
329
स्वोपजीविजनेभ्योऽपि ददौ रामो धनं बहु

 लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ २५ ॥

अशून्यं कार्यमेकैकं यावदागमनं मम ।

 अशून्यं कार्यमिति । यथापूर्वं युष्माभिरत्रोपविश्य रक्षणीयमित्यर्थः ॥ २५ ॥

 [१]इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् ॥ २६ ॥
 उवाचेदं धनाध्यक्षं धन[२] मानीयतामिति ।
 ततोऽस्य धनमाजहुः [३]सर्वमेवोपजीविनः ॥ २७ ॥
 स राशिस्सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ।
 ततस्स पुरुषव्याघ्रस्तद्धनं सहलक्षणः ॥ २८ ॥

 द्विजेभ्यो वालवृद्धेभ्यः [४] कृपणेभ्यां ह्यदापयत् ।
 कृपणेभ्यो ह्यदापयदिति । भूरिदानरूपतयेति शेषः ॥ २८ ॥

 तत्रासीत्[५] पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः ॥ २९ ॥
  [६][७]उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ।

तत्रेति । तस्मिन् काले देशे चेत्यर्थः । फालं-हलावयवविशेषः-। कुद्दालं-कन्दखननसाधनविशेषः-लाङ्गलं-हलं । वानप्रस्थत्वादिदं साधनं कन्दादिसंपादनार्थं । उञ्छनं-व्रीह्यर्थम् ॥ २९ ॥


  1. स्वोपजीविभ्यो विशिष्य धनदानमुक्तम् । अथेतरेभ्यो दानमुच्यते
  2. मानीयतां मम-ङ.
  3. सर्व एवो ङ.
  4. दरिद्रेभ्यो-ङ.
  5. पिङ्गलः-पिङ्गलवर्ण इति दारिद्र्यलक्षणोकपिलकेशो वा । आसीत्- देवात्तदावी समीपे संगतोऽभूदिति भावः- गो.
  6. क्षतवृत्तिः भूखननेन जीवनवान्। उच्छवृत्तिरिति पाठो न स्वरसः फालकुदालेत्यदिरवक्तव्यत्वात्-सत्य. क्षतवृत्तिः-क्षीणवृतिः-ति. उञ्छवृत्तिः--शि. खलादौ परित्यक्तधान्यस्य संग्रहणं-उन्छः ।
  7. क्षतवृत्तिः- ङ. च