पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
328
[अयोध्याकाण्डः
यात्रादानम्

तेषां सहस्रैः सह भद्रकान्-धान्यविशेषान्-चणकमुद्रादिरूपान् व्यञ्जनार्हान् दापयेत्यनुकर्षः । गवां सहस्रमुपाकुरु-उपसे चनार्थं कुर्वित्यर्थः ॥ २० ॥

 [१][२]मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥ २१ ॥

 तेषां सहस्रं, सौमित्रे ! प्रत्येकं संप्रदापय ।

 मेखलीनां ब्रह्मचारिणामिति यावत् । समुपस्थित इति । विवाहार्थमिति शेषः ॥ २१ ॥

 [३] अम्बा [४]यथा नो नन्देच्च कौसल्या मम दक्षिणा ॥
 तथा द्विजातींस्तान् सर्वान् लक्ष्मणार्चय सर्वशः ।

 नः-अस्माकं अम्बा यथा चेत् स्वश्रिब्रह्मचारिबर्गस्य विवाहार्थभिक्षाप्रदानेन नन्देत् तथा दापय । दक्षिणा-समर्था ॥ २२ ॥

 ततः पुरुषशार्दूलस्तद्धनं लक्ष्मणः स्वयम् ॥ २३ ॥
 यथोक्तं ब्राह्मणेन्द्राणां[५] अददाद्धनदो यथा ।

 तद्धनमिति । यथोक्तविभागकमित्यर्थः ॥ २३ ॥

 अथाब्रवी[६]द्वाष्प कलांस्तिष्ठतश्चोपजीविनः ॥ २४ ॥
 संप्रदाय बहुद्रव्यं एकैकस्योपजीवनम् ।

 बाष्प[७]कलाः-बाष्पगद्गदाः । उपजीवनं-जीवनसाधनम् ॥ २४ ॥


  1. मेखलानां अर्श आदित्वादच-ती.
  2. मेखलानां-ङ. छ.
  3. नः अम्बा मम दक्षिणां-मया दीयमानां दक्षिणां यथा नन्देत् इत्यन्वयः
  4. यथा च सा नन्देत्, यदा नौ नन्देच्च-ङ,
  5. कुबेरस्य दानशीलत्वं 'धनदेन समस्त्यागे' इत्यत्रैव संक्षेपरामायणे उक्तम्
  6. बाष्पं कलन्ति-मुञ्चन्तीति बाष्पकलाः-गो.
  7. गलाः-ञ.