पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः ]
327
एवमेवेतरेभ्योऽपि पात्रेभ्यः प्रददौ धनम्

 नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति [१] किञ्चन ।
 अलसाः स्वादु[२]कामाश्च महतां चापि सम्मताः ॥ १९ ॥
 तेषामशीतियानानि रत्नपूर्णानि दापय ।
 शालिवाहसहस्रं च द्वे च ते [३]भद्रकांस्तथा ॥ २० ॥
 व्यञ्जनार्थं च, सौमित्रे ! गोसहस्रमुपाकुरु ।

 कठेन प्रोक्तमधीते, अण्, तस्य 'कठचरकाल्लुक्' इति लुक् । कलापिना प्रोक्तं, कलापिनोऽण् । कठं कालापमधीयते-'तदधीते' इत्यण् । 'प्रोक्ताल्लुक्' इति लुक् । ये चेमे कठकालापाः-तदध्ये-तारो दण्डमाणवाः-दण्डप्रधाना माणवाः-उपकुर्वाणब्रह्मचारिण इति यावत् । अन्यादति--व्रतोपवासादिकमिति यावत्-'आहिताग्निरनड्वाश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्' इति स्मृतेः । अन्यन्न कुर्वन्तीत्यत्र हेतुः-नित्यस्वाध्यायशीलत्वादिति । अत एव व्रतान्तरानुष्ठाने अलसाः । स्वादुकामाश्चेति । ब्रह्मचारिणो भिक्षार्थित्वतः स्वाद्वन्नकामाः । तर्हि कथमेवंविधा दानीया इत्यत्रोक्तं-महतां चापि सम्मता इति । 'तप एवतत्तप्यते । तपो हि स्वाध्यायः' इति श्रुतेः नित्यतपस्वित्वेन महात्मनामपि सम्मताः । रत्नपूर्णानि-धनपूर्णानि । अशीतियानानीति । अशीत्युष्ट्राणीति यावत् । शालीन् वहन्त इति शालिवाहाः-बलीवर्दाः ।


  1. किञ्चन-आहारार्थयत्नादिकम् । गोसहस्रप्रदानहेतुत्वेनाह--स्वादुकामाश्चेति... रत्नपूर्णानि-रत्नालङ्कारपूर्णानि... रत्नवाहानुष्ट्रानिति वा-गो.
  2. शीलाश्च-ङ.
  3. भद्रकान्-अल्पार्थे वन् प्रत्ययः-कर्षणयोग्याननडुह इत्यर्थः । धान्यविशेषानित्यपरे । गोसहस्त्रं व्यञ्जनार्थे-क्षीर-दधिघृतार्थ-गो.