अथ स तस्य वचः श्रुत्वाऽऽगतः पश्चात् वचनाय निर्बध्नन्तीं, भद्रे ! त्वमितो गच्छेति ते मातरं निरस्य-परित्यज्य-[१]निर्वास्य कुबेरवद्विजहार ॥ २४ ॥
तथा त्वमपि राजानं दुर्जनाचरिते पथि ।
असद्ग्राहमिमं मोहात् कुरुषे, पापदर्शिनि ! ॥ २५ ॥
प्रकृते यथोक्तमर्थमुपनयति-तथेत्यादि ॥ २५ ॥
सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा ।
पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ २६ ॥
मात्रीयासद्ग्राहस्य न्यायप्राप्तत्वमस्या दर्शयति-सत्य इत्यादि । मा-मामिति यावत् । समनुजायन्ते-पितृस्वभावं समनुकुर्वाणा जायन्त इत्यर्थः ॥ २६ ॥
[२]नैवं भव गृहाणेदं यदाह वसुधाधिपः ।
भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ २७ ॥
नैवं भवेति । मातृवदसद्ग्रहाभिनिवेशिनी मा भव । जनस्यास्येति । अस्मदादेरित्यर्थः । गतिर्भवेति । शरणं भवेति यावत् ॥ २७ ॥
मा त्वं प्रोत्साहिता पापैः देवराजसमप्रभम् ।
भर्तारं लोकभर्तारं [३]असद्धर्ममुपादधाः ॥ २८ ॥
भर्तारं प्रति असद्धर्मं-मिथ्यावलृप्तधर्ममेवोपादधाः-उपाधिं कृतवत्यसि ॥ २८ ॥