पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

368 रावणगणम् मुमूर्तॄणां हि सर्वेषां यत् पथ्यं तन्न रोचते । पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥ १७ ॥ 1 यथा चास्मिन् भयस्थाने न बिभेषि, दशानन !

व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् ॥ [अरण्यकाण्ड: FEX. • नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् । 2 असिपत्रवनं चैव भीमं पश्यसि, रावण ! ॥ १९ ॥ ततकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् । 4 द्रक्ष्यसे शाल्मलीं ' तीक्ष्णां आयसैः कण्टकैश्चिताम् ।। शाल्मली -यातनावृक्षः ॥ २० ॥ न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः । ' धरितुं शक्ष्यसि चिरं विषं पीत्वेव, + निर्घृण ! ॥ २१ ॥ धरितुं – घर्तुमिति यावत् । जीवितमिति शेषः || २१ ।। बद्धस्त्वं कालपाशेन दुर्निवारेण, रावण ! क्व गतो लप्स्यसे शर्म # भर्तुर्मम महात्मनः || २२ भर्तुः इति । अपराद्ध इति शेषः ॥ २२ ॥

+ ' निर्घृण: ' इति पाठे निर्घुणस्त्वमित्यन्वयः । हेतोः क गतस्सन् शर्म लप्स्यसे- गो. 2 निशाचर-अ. 5 धारिर्तु-ज. पूर्वमपि (47-38) एवमुक्तम् । 68-11 श्लोकोऽपि द्रष्टव्यः । +भर्तुरिति हेतौ पञ्चमी । तस्मात तीक्ष्णै:- ष, खड्गपत्र - ज. चित्रां-ड..