सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
368
[अरण्यकाण्ड:
रावणगणम्

मुमूर्तॄणां हि सर्वेषां यत् पथ्यं तन्न रोचते ।
पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥ १७ ॥
यथा चास्मिन् भयस्थाने न बिभेषि [१] दशानन !
[२] व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् ॥
• नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् ।
[३] असिपत्रवनं चैव भीमं पश्यसि, रावण ! ॥ १९ ॥
ततकाञ्चन [४] पुष्पां च वैडूर्यप्रवरच्छदाम् ।
द्रक्ष्यसे शाल्मलीं [५] तीक्ष्णां आयसैः कण्टकैश्चिताम् ।।

 शाल्मली -यातनावृक्षः ॥ २० ॥

न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ।
[६] धरितुं शक्ष्यसि चिरं विषं पीत्वेव, [७] निर्घृण ! ॥ २१ ॥

 धरितुं – घर्तुमिति यावत् । जीवितमिति शेषः || २१ ।।

बद्धस्त्वं कालपाशेन दुर्निवारेण, रावण !
क्व गतो लप्स्यसे शर्म [८] भर्तुर्मम महात्मनः || २२

 भर्तुः इति । अपराद्ध इति शेषः ॥ २२ ॥


  1. निशाचर-अ.
  2. पूर्वमपि (47-38) एवमुक्तम् । 68-11 श्लोकोऽपि द्रष्टव्यः ।
  3. खड्गपत्र - ज.
  4. चित्रां-ड..
  5. तीक्ष्णै:-ष,
  6. धारिर्तु-ज.
  7. ' निर्घृण: ' इति पाठे निर्घुणस्त्वमित्यन्वयः ।
  8. हेतोः क गतस्सन् शर्म लप्स्यसे- गो.